श्री विष्णु सहस्रनाम - पूर्ण पाठ

श्री विष्णु सहस्रनाम का पूर्ण पाठ हिंदी में। भगवान विष्णु के एक हजार नामों का पारंपरिक भक्ति-पाठ श्रद्धा के साथ किया जाता है। निःशुल्क ऑनलाइन पढ़ें।

श्री विष्णु सहस्रनाम के बारे में

श्री विष्णु सहस्रनाम भगवान विष्णु के एक हजार नामों का संग्रह है। यह पवित्र ग्रंथ महाभारत के अनुशासन पर्व में वर्णित है और भीष्म पितामह द्वारा युधिष्ठिर को सुनाया गया था। इसका नियमित पाठ करने से सभी प्रकार के भय, रोग और संकटों से मुक्ति मिलती है तथा आध्यात्मिक शक्ति प्राप्त होती है।

प्रारम्भिक श्लोक

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्न वदनं ध्यायेत् सर्वं विघ्नोपशान्तये ॥

यस्य द्विरद वक्त्राद्या: पारिषदा: परश्रशतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥

व्यासं वसिष्ठ नप्तारं शके: पौत्रं अकल्मषम् ।
पराशरात्मजं वन्दे शुखतातं तपोनिधिम् ॥

व्यासाय विष्णु रूपाय व्यास रूपाय विष्णवे ।
नमो वै ब्रह्म निधये वासिष्ठाय नमो नम: ॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूप रूपाय विष्णवे सर्व जिष्णवे ॥

यस्य स्मरण मात्रेण जन्म संसार बन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभ विष्णवे ॥

श्री वैशम्पायन उवाच

श्रुत्वा धर्मानिशेषेण पावनानि च सर्वश: ।
युधिष्ठिर: शान्तनवं पुनरेवाभ्य भाषत ॥

युधिष्ठिर उवाच

किमेकं दैवतं लोके किं वाज्येकं परायणम् ।
स्तुवन्त: कं कमर्चन्त: प्राप्नुयुर् मानवा: शुभम् ॥

को धर्म: सर्व धर्माणां भवत: परमो मत: ।
किं जपन् मुच्यते जन्तुर् जन्म संसार बन्धनात् ॥

श्री भीष्म उवच

जगत्प्रभुं देव देवं अनन्तं पुरुषोत्तमम् ।
स्तुवन् नाम सहस्रेण पुरुष: सततोत्थित: ॥

तमेव चाचर्यन् नित्यं भक्त्या पुरुषां अव्ययम् ।
ध्यायन् स्तुवन् नमस्यश्च यजमानस् तमेव च ॥

अनादि निधनं विष्णुं सर्व लोक महेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं सर्व दु:खाधिगो भवेत् ॥

ब्रह्मण्यं सर्व धर्मज्ञं लोकानां कीर्ति वर्धनम् ।
लोकनाथं महद्भूतं सर्व भूत भवोद् भवम् ॥

एष मे सर्व धर्माणां धर्मोऽधिकतमो मत: ।
यद्दक्त्या पुण्डरीकाक्षं स्तवैरचैन् नर: सदा: ॥

परमं यो महत् तेज: परमं यो महत् तप: ।
परमं यो महद् ब्रह्म परमं य: परायणम् ॥

पवित्राणां पवित्रं यो मङ्गल्यानां च मङ्गल्यम् ।
दैवतं देवतानां च भूतानां योऽव्यय: पिता ॥

यत: सर्वाणि भूतानि भवन्न्यादि युगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥

तस्य लोक प्रधानस्य जगन्नाथस्य भूपते ।
विष्णोए नाम सहस्रं मे क्षुणु पाप भयापहम् ॥

यानि नामानि गौणानि विख्यातानि महात्मन: ।
ऋषिभि: परिगीतानि तानि वक्ष्यामि भूतये ॥

ऋषि न्यास

ऋषिर् नाम्नां सहस्रस्य वेदव्यासो महा मुनि: ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकी सुत: ॥

अमृतां शूद्रवो बीजं शक्तिर् देवकि नन्दन: ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियुज्यते ॥

विष्णुं विष्णुं महा विष्णुं प्रभ विष्णुं महेश्वरम् ।
अनेक रूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥

विनियोग:

अस्य श्री विष्णोएं दिव्य सहस्रनाम स्तोत्र महा मन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषि: ।
अनुग्रटुप् छन्द: ।
श्री महाविष्णु: परमात्मा श्रीमन् नारायणो देवता ।
अमृतां शूद्रवो भानुरिति बीजम् ।
देवकी नन्दन: स्रष्टेति शाक्ति: ।
उद्भव: क्षोभणो देव इति परमो मन्त्र: ।
शङ्कभन् नन्दकी चक्रीति कीलकम् ।
शार्द्धन्वा गदाधर इत्यस्त्रम् ।
रथान्नपाणि अधोभ्य इति नेत्रम् ।
त्रिसामा सामग: सामेति कवचम् ।
आनन्दं परब्रह्मेति योनि: ।
ऋतु: सुदर्शन: काल इति दिग्बन्ध: ।
श्री विश्व रूप इति ध्यानम् ।
श्री महाविष्णु कैद्भर्य रूपे सहस्रनाम जपे विनियोग: ।

ध्यानम्

क्षीरो धन्वत् प्रदेशो शुचिमणि विलसत् सैकते मौकिकानां
माला क्लुप्ता सनस्थ: स्फटिकमणि निभैर् मौकिकैर् मण्डिताङ्क: ।
शृथ्रैर्भ्यै रद्भैर् उपरि विरचितैर् मुक्त पीयूष वर्षै:
आनन्दी न: पुनीयादरिनलिन गदा शङ्कपाणि मुकुन्द: ।

भू: पादौ यस्य नाभिर् वियद्सुरनिलश् चन्द्र सूर्यो च नेत्रे ।
कर्णा वाश: शिरो द्यौर् मुखमपि दहनो यस्य वास्तेयमब्धि: ।
अन्त:स्थं यस्य विश्वं सुर नर खग गो भोगि गन्धर्व दैत्यै: ।
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥

शान्ताकारं भुजग शयनं पद्मनाभं सुरेशं
विश्वाधारं गगन सदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मी कान्तं कमल नयनं योगिहद् ध्यान गम्यं
वन्दे विष्णुं भव भय हरं सर्व लोकैक नाथम् ॥

मेघश्यामं पीतकौशोय वासं
श्रीवत्साङ्क कौस्तुभोद् भासि ताङ्गम् ।
पुन्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्व लोकैक नाथम् ॥

सश्रद्ध चक्रं सकिरीट कुण्डलं
सपीत वस्त्रं सरसीरु हेक्षणम् ।
सहार वक्षःस्थल श्रोभि कौस्तुभं
नमामि विष्णुं शिरसा चतुर्भुजम् ॥

छायायां पारिजातस्य हेमसिंहासनो परि ।
आसीनमम्बुद श्रयामं आयताक्षं अलङ्कृतम् ॥

चन्द्राननं चतुर् बाहुं श्रीवत्साह्नित वक्षसम् ।
रुक्मिणी सत्यभामाभ्यां सहितं कृष्णं आश्रये ॥

॥ सहस्रनाम ॥

॥ १ ॥

विश्वं, विष्णुर्, वषट्कारो, भूत भव्य भवत्प्रभुः ।
भूथ कृद्, भूथ बृद्, भावो, भूतात्मा, भूत भावनः ॥

॥ २ ॥

पूतात्मा, परमात्मा च, मुक्तानां परमा गतिः ।
अव्ययः, पुरुषः, साक्षी, क्षेत्रज्ञ, अक्षर एव च ॥

॥ ३ ॥

योगो, योगविदां नेता, प्रधान पुरुषेश्वरः ।
नारसिंहवपुः, श्रीमान्, केशवः, पुरुषोत्तमः ॥

॥ ४ ॥

सर्वः, शर्वः, शिवः, स्थाणुर्, भूतादिर्, निधिर् अव्ययः ।
सम्भवो, भावनो, भर्ता, प्रभवः, प्रभुर्, ईश्वरः ॥

॥ ५ ॥

स्वयंभूः, शंभुर्, आदित्यः, पुष्कराक्षो, महास्वनः ।
अनादि निधनो, धाता, विधाता, धातुर् उत्तमः ॥

॥ ६ ॥

अप्रमेयो, हषीकेशः, पद्मनाभो, अमर प्रभुः ।
विश्वकर्मा, मनुस्, त्वष्टा, स्थविष्ठः, स्थविरो, धृवः ॥

॥ ७ ॥

अग्राह्म, श्राश्वतः, कृष्णो, लोहिताक्षः, प्रतर्दनः ।
प्रभूतस्, त्रिककुन्डाम, पवित्रं, मङ्गलं परम् ॥

॥ ८ ॥

ईशानः, प्राणदः, प्राणो, ज्येष्ठः, स्रेष्ठः, प्रजापतिः ।
हिरण्य गर्भो, भू गर्भो, माधवो, मधुसूदनः ॥

॥ ९ ॥

ईश्वरो, विक्रमी, धन्त्री, मेधावी, विक्रमः, क्रमः ।
अनुत्तमो, दुराधर्षः, कृतज्ञः, कृतिर्, आत्मवान् ॥

॥ १० ॥

सुरेशः, शरणं, शर्म, विश्वरेता:, प्रजा भव: ।
अहस्, संवत्सरो, व्याळ:, प्रत्यय:, सर्व दर्शन: ॥

॥ ११ ॥

अजस्, सर्वेश्वर:, सिद्ध:, सिद्धि:, सर्वादिर्, अच्युत: ।
वृषाकपिर्, अमेयात्मा, सर्व योग विनिस्स्त: ॥

॥ १२ ॥

वसुर्, वसुमनास्, सत्यस्, समात्मा, सम्मितस्, सम: ।
अमोघ:, पुण्डरीकाक्षो, वृषकर्मा, वृषाकृति: ॥

॥ १३ ॥

रुद्रो, बहुशिरा, बभ्रुर्, विश्वयोनिश्, शुचिश्रवा: ।
अमृतश्, शाश्वत स्थाणुर्, वरारोहो, महातपा: ॥

॥ १४ ॥

सर्वग:, सर्व विद्, भानुर्, विष्वक्सेनो, जनार्दन: ।
वेदो, वेदविद्, अव्यङ्गो, वेदाङ्गो, वेदवित्, कवि: ॥

॥ १५ ॥

लोकाध्यक्षस्, सुराध्यक्षो, धर्माध्यक्ष:, कृताकृत: ।
चतुरात्मा, चतुर्व्यूहश्, चतुर् दंष्टश्, चतुर्भुज: ॥

॥ १६ ॥

भ्राजिष्णुर्, भोजनं, भोक्ता, सहिष्णुर्, जगदादिज: ।
अनघो, विजयो, जेता, विश्व योनि:, पुनर्वसु: ॥

॥ १७ ॥

उपेन्द्रो, वामन:, प्रांशुर्, अमोघ:, शुचिर्, ऊर्जित: ।
अतीन्द्रस्, सङ्ग्रहस्, सर्गो, धृतात्मा, नियमो, यम: ॥

॥ १८ ॥

वेद्यो, वैद्य:, सदायोगी, वीरहा, माधवो, मधु: ।
अतीन्द्रियो, महामायो, महोत्साहो, माहाबल: ॥

॥ १९ ॥

महाबुद्धिर्, महावीर्यो, महाशक्तिर्, महाद्वृति: ।
अनिर्देश्यवपु:, श्रीमान्, अमेयात्मा, महाद्रिधृत् ॥

॥ २० ॥

महेष्वासो, महीभर्ता, श्रीनिवासस्, सतां गति: ।
अनिरुद्ध:, सुरानन्दो, गोविन्दो, गोविदां पति: ॥

॥ २१ ॥

मरीचिर्, दमनो, हंस:, सुपर्णो, भुजगोत्तम: ।
हिरण्य नाभस्, सुतपा, पद्मनाभ:, प्रजापति: ॥

॥ २२ ॥

अमृत्युस्, सर्वदृक्, सिंह:, सन्धाता, सन्धिमान्, स्थिर: ।
अजो, दुर्मर्षनश्, शास्ता, विश्वुतात्मा, सुरारिहा ॥

॥ २३ ॥

गुरूर् गुरुतमो, धाम, सत्यस्, सत्य पराक्रमः ।
निमिषः, अनिमिषः, स्रग्वी, वाचस्पतिर्, उदारधीः ॥

॥ २४ ॥

अग्रणीर्, ग्रामणीः, श्रीमान्, न्यायो, नेता, समीरणः ।
सहस्र मूर्धा, विश्वात्मा, सहस्राक्षः, सहस्रपातुः ॥

॥ २५ ॥

आवर्तनो, निवृत्तात्मा, संवृतस्, संप्रमर्दनः ।
अहस् संवर्तको, वह्निर्, अनिलो, धरणीधरः ॥

॥ २६ ॥

सुप्रसादः, प्रसन्नात्मा, विश्वस्गु, विश्वभुगु विभुः ।
सत्कर्ता, सत्कृतस्, साधुर्, जहुर्, नारायणो, नरः ॥

॥ २७ ॥

असङ्ख्येयः, अप्रमेयात्मा, विशिष्टश्, शिष्टकृच्, छुचिः ।
सिद्धार्थस्, सिद्ध सङ्कल्पः, सिद्धिधस्, सिद्धि साधनः ॥

॥ २८ ॥

वृषाही, वृष्ठाभो, विष्णुर्, वृषपर्वा, वृषोदरः ।
वर्धनो, वर्धमानश् च, विविकः, श्रुति सागरः ॥

॥ २९ ॥

सुभुजो, दुर्धरो, वाग्मी, महेन्द्रो, वसुदो, वसुः ।
नैकरूपो, बृहद् रूपः, शिपिविष्टः, प्रकाशनः ॥

॥ ३० ॥

ओजस् तेजो द्युति धरः, प्रकाशात्मा, प्रतापनः ।
ऋद्धस्, स्पष्टाक्षरो, मन्त्रस्, चन्द्रांशुर्, भास्कर द्युतिः ॥

॥ ३१ ॥

अमृतां श्रूढवो, भानुः, श्राशबिन्दुस्, सुरेश्वरः ।
औषधं, जगतस् सेतुः, सत्यधर्म पराक्रमः ॥

॥ ३२ ॥

भूत भव्य भवन्नाथः, पवनः, पावन, अनलः ।
कामहा, कामकृत्, कान्तः, कामः, काम प्रदः, प्रभुः ॥

॥ ३३ ॥

युगादि कृद्, युगावर्तो, नैकमायो, महाशनः ।
अदृश्यो, व्यक्त रूपश् च, सहस्रजित्, अनन्तजित् ॥

॥ ३४ ॥

इष्टो विशिष्टश्, शिष्टेऽः, शिखण्डी, नहुषो, वृषः ।
क्रोधहा, क्रोधकृत्, कर्ता, विश्वबाहुर्, महीधरः ॥

॥ ३५ ॥

अच्युतः, प्रथितः, प्राणः, प्राणदो, वासवानुजः ।
अपान्निधिर्, अधिष्ठानं, अप्रमतः, प्रतिष्ठितः ॥

॥ ३६ ॥

स्कन्दस्, स्कन्दधरो, धुर्यो, वरदो, वायुवाहनः ।
वासुदेवो, बृहद्वानुर्, आदिदेवः, पुरन्दरः ॥

॥ ३७ ॥

अशोकस्, तारणस्, तारः, शूरः, शौरिर्, जनेश्वरः ।
अनुकूलश्, शता वर्तः, पद्मी, पद्म निभेक्षणः ॥

॥ ३८ ॥

पद्म नाभो, अरविन्दाक्षः, पद्म गर्भः, शरीरभूत् ।
महद्विःर्, ऋद्धो, वृद्धात्मा, महाक्षो, गरुड ध्वजः ॥

॥ ३९ ॥

अतुलः, शरभो, भीमः, समयज्ञो, हविहीरिः ।
सर्व लक्षण लक्षण्यो, लक्ष्मीवान्, समितिञ्जयः ॥

॥ ४० ॥

विक्षरो, रोहितो, मार्गो, हेतुर्, दामोदरः, सहः ।
महीधरो, महाभागो, वेगवान्, अमिताशनः ॥

॥ ४१ ॥

उद्भवः, क्षोबणो, देवः, श्रीगर्भः, परमेश्वरः ।
करणं, कारणं, कर्ता, विकर्ता, गहनो, गुहः ॥

॥ ४२ ॥

व्यवसायो, व्यवस्थानः, सम्स्थानः, स्थानदो, ध्वः ।
परदिंः, परम स्पष्टः, तुष्टः, पुष्टः, शुभेक्षणः ॥

॥ ४३ ॥

रामो, विरामो, विरतो, मार्गो, नेयो, नयः, अनयः ।
वीरश्, शक्ति मतां श्रेष्ठो, धर्मो, धर्म विद्वत्तमः ॥

॥ ४४ ॥

वैकुण्ठः, पुरुषः, प्राणः, प्राणदः, प्रणवः, पृथुः ।
हिरण्य गर्भश्, शत्रुघ्नो, व्याप्तो, वायुर्, अधोक्षजः ॥

॥ ४५ ॥

ऋतुस्, सुदर्शनः, कालः, परमेष्ठी, परिग्रहः ।
उग्रस्, संवत्सरो, दक्षो, विश्रामो, विश्वदक्षिणः ॥

॥ ४६ ॥

विस्तारः, स्थावरस् थाणुः, प्रमाणं, बीजं अव्ययम् ।
अत्थंः, अनर्थः, महाकोशो, महाभोगो, महाधनः ॥

॥ ४७ ॥

अनिर्विण्णः, स्थविष्ठो, भूर्, धर्मयूपो, महामखः ।
नक्षत्र नेमिर्, नक्षत्री, क्षमः, क्षामस्, समीहनः ॥

॥ ४८ ॥

यज्ञ, इज्यो, महेज्यश् च, क्रतुस्, सत्रं, सताकृति: ।
सर्व दर्शी, निवृत्तात्मा, सर्वज्ञो, ज्ञानम् उत्तमम् ॥

॥ ४९ ॥

सुत्रत:, सुमुखस्, सूक्ष्म:, सुघोष:, सुखद:, सुहत् ।
मनोहरो, जितक्रोधो, वीरबाहुर्, विदारण: ॥

॥ ५० ॥

स्वापनस्, स्ववश्रो, व्यापी, नैकात्मा, नैक कर्म कृत् ।
वत्सरो, वत्सलो, वत्सी, रत्नगर्भो, धनेश्वर: ॥

॥ ५१ ॥

धर्मगुब्रु, धर्मकृद्, धर्मी, सदक्षरम्, असत्क्षरम् ।
अविज्ञाता, सहस्रांशुर्, विधाता, कृत लक्षण: ॥

॥ ५२ ॥

गभस्ति नेमिस्, सत्वस्थस्, सिंहो, भूत महेश्वर: ।
आदिदेवो, महादेवो, देवेश्रो, देवभृद्, गुरु: ॥

॥ ५३ ॥

उत्तरो, गोपतिर्, गोप्ता, ज्ञानगम्य:, पुरातन: ।
शरीर भूत भृद्, भोक्ता, कपीन्द्रो, भूरिदक्षिण: ॥

॥ ५४ ॥

सोमप:, अमृतप:, सोम:, पुरुजित्, पुरुसत्तम: ।
विनयो, जय:, सत्य सन्धो, दाशार्ह:, सात्वतां पतिः ॥

॥ ५५ ॥

जीवो, विनयिता, साक्षी, मुकुन्द:, अमित विक्रम: ।
अम्भोनिधिर्, अनन्तात्मा, महोदधिशय, अन्तक: ॥

॥ ५६ ॥

अजो, महार्ह:, स्वाभाव्यो, जितामित्र:, प्रमोदन: ।
आनन्दो, नन्दनो, नन्द:, सत्य धर्मा, त्रिविक्रम: ॥

॥ ५७ ॥

महर्षि:, कपिलाचार्य:, कृतज्ञो, मेदिनी पतिः ।
त्रिपदस्, त्रिद शाध्यक्षो, महाशङ्क:, कृतान्त कृत् ॥

॥ ५८ ॥

महावराहो, गोविन्द:, सुषेण:, कनकाङ्गदी ।
गुष्ठो, गभीरो, गहनो, गुप्तश्, चक्र गदा धर: ॥

॥ ५९ ॥

वेधा:, स्वाङ्ग:, अजित:, कृष्णो, दृढ:, सङ्कर्षण, अच्युत: ।
वरुणो, वारुणो, वृक्ष:, पुष्कराक्षो, महामना: ॥

॥ ६० ॥

भगवान्, भगहा, नन्दी, वनमाली, हलायुध: ।
आदित्यो, ज्योतिर् आदित्य:, सहिष्णुर्, गतिसत्तम: ॥

॥ ६१ ॥

सुधन्वा, खण्ड परशुर्, दारुणो, द्विविण प्रद: ।
दिवस्पृक्, सर्वदृग्, व्यासो, वाचस्पतिर्, अयोनिज: ॥

॥ ६२ ॥

त्रिसामा, सामग:, साम, निर्वाणं, भेषजं, भिषक् ।
सन्न्यास कृच्, छम:, ज्ञानतो, निष्ठा, ज्ञानित:, परायणम् ॥

॥ ६३ ॥

ज्ञुभाङ्ग:, ज्ञानितद:, स्रष्टा, कुमुद:, कुवलेश्रय: ।
गोहितो, गोपतिर्, गोप्ता, वृषभाक्षो, वृषप्रिय: ॥

॥ ६४ ॥

अनिवर्ती, निवृत्तात्मा, सङ्क्षेप्ता, क्षेमकृच्, छिव: ।
श्रीवत्स वक्षा:, श्रीवास:, श्रीपति:, श्रीमतां वर: ॥

॥ ६५ ॥

श्रीद:, श्रीश:, श्रीनिवास:, श्रीनिधि:, स्रीविभावन: ।
श्रीधर:, श्रीकर:, श्रेय: श्रीमान्, लोक त्रयाश्रय: ॥

॥ ६६ ॥

स्वक्ष:, स्वङ्ग:, ज्ञातानन्दो, नन्दिर्, ज्योतिर् गणेश्वर: ।
विजितात्मा, विधेयात्मा, सत्कीर्तिश्, छिन्न संश्रय: ॥

॥ ६७ ॥

उदीर्ण:, सर्वतज्ञ् चक्षुर्, अनीश:, ज्ञाश्रत स्थिर: ।
भूश्रायो, भूषणो, भूतिर्, अशोक:, शोक नाशन: ॥

॥ ६८ ॥

अचिंष्मान्, अचिंत:, कुम्भो, विशुद्धात्मा, विशोधन: ।
अनिरुद्ध:, अप्रतिरथ:, प्रद्युम्न:, अमित विक्रम: ॥

॥ ६९ ॥

कालनेमि निहा, ज्ञौरि:, ज्ञूर:, ज्ञूर जनेश्वर: ।
त्रिलोकात्मा, त्रिलोकेश:, केशव:, केशिहा, हरि: ॥

॥ ७० ॥

कामदेव:, कमपाल:, कामी, कान्त:, कृतागम: ।
अनिर्देश्यवपुर्, विष्णु:, वीर:, अनन्तो, धनञ्जय: ॥

॥ ७१ ॥

ब्रह्मण्यो, ब्रह्मकृद् ब्रह्मा, ब्रह्म, ब्रह्म विवर्धन: ।
ब्रह्मविद्, ब्राह्मणो, ब्रह्मी, ब्रह्मज्ञो, ब्राह्मण प्रिय: ॥

॥ ७२ ॥

महाक्रमो, महा कर्मा, महातेजा, महोरग: ।
महाक्रतुर्, महायज्वा, महायज्ञो, महाहवि: ॥

॥ ७३ ॥

स्तव्य:, स्तव प्रिय:, स्तोत्रं, स्तुत:, स्तोता, रणप्रिय: ।
पूर्ण:, पूर्यिता, पुण्य:, पुण्य कीर्तिर्, अनामय: ॥

॥ ७४ ॥

मनोजवस्, तीर्थकरो, वसुरेता, वसुप्रद: ।
वसुप्रदो, वासुदेवो, वसुर्, वसुमना, हवि: ॥

॥ ७५ ॥

सद्भति:, सत्कृति:, सत्ता, सद्भृति:, सत्परायण: ।
सूरसेनो, यदु श्रेष्ठ:, सन्निवास:, सुयामुन: ॥

॥ ७६ ॥

भूतावासो, वासुदेव:, सर्वांसु निलय, अनल: ।
दर्पहा, दर्पदो, अद्वप्तो, दुर्धरोथ, अपराजित: ॥

॥ ७७ ॥

विश्व मूर्तिर्, महा मूर्तिर्, दीप्त मूर्तिर्, अमूर्तिमान् ।
अनेक मूर्तिर्, अव्यक्त:, श्रात मूर्ति:, श्रातानन: ॥

॥ ७८ ॥

एको, नैक:, स, व:, क:, किं, यत्, तत्, पदं अनुत्तमम् ।
लोक बन्धुर्, लोक नाथो, माधवो, भक्त वत्सल: ॥

॥ ७९ ॥

सुवर्ण वर्णो, हेमाङ्गो, वराङ्गश्रु, चन्दनाङ्गदी ।
वीरहा, विषम:, श्रूयो, घृथाशीर्, अचल:, चल: ॥

॥ ८० ॥

अमानी, मानदो, मान्यो, लोक स्वामी, त्रि लोक धृत् ।
सुमेधा, मेधजो, धन्य:, सत्यमेधा, धराधर: ॥

॥ ८१ ॥

तेजो वृषो, धुति धर:, सर्वं शस्त्र भृतां वर: ।
प्रग्रहो, निग्रहो, व्यग्रो, नैकश्रुङ्गो, गदाग्रज: ॥

॥ ८२ ॥

चतुर् मूर्ति:, चतुर् बाहु:, चतुर् व्यूह:, चतुर् गति: ।
चतुर् आत्मा, चतुर् भाव:, चतुर् वेदविद्, एकपात् ॥

॥ ८३ ॥

समावर्तो, निवृत्तात्मा, दुर्जयो, दुरतिक्रम: ।
दुर्लभो, दुर्गमो, दुर्गो, दुरावासो, दुरारिहा ॥

॥ ८४ ॥

शुभाङ्गो, लोक सारङ्ग:, सुतन्तुस्, तन्तु वर्धन: ।
इन्द्र कर्मा, महा कर्मा, कृत कर्मा, कृतागम: ॥

॥ ८५ ॥

उद्भव:, सुन्दर:, सुन्दो, रत्न नाभ:, सुलोचन: ।
अर्को, वाजसनि:, श्रुङ्गी, जयन्त:, सर्वं विज्ञयी ॥

॥ ८६ ॥

सुवर्ण बिन्दुर्, अश्लोभ्य:, सर्ववाग् ईश्वरेश्वर: ।
महा हदो, महा गतौ, महा भूतो, महा निधि: ॥

॥ ८७ ॥

कुमुद:, कुन्दर:, कुन्द:, पर्जन्य:, पावन:, अनिल: ।
अमृताश:, अमृत वपु:, सर्वज्ञ:, सर्वतो मुख: ॥

॥ ८८ ॥

सुलभः, सुव्रतः, सिद्धः, शत्रुजित् छत्रुतापनः ।
न्यग्रोध उदुम्बरः, अश्वत्थः, चाणूरान्ध्र निषूदनः ॥

॥ ८९ ॥

सहस्रार्चिः, सप्त जिह्वः, सप्तैधाः, सप्त वाहनः ।
अमूर्तिर्, अनघः, अचिन्त्यो, भय कृद्, भय नाशनः ॥

॥ ९० ॥

अणुर्, बृहत्, कृशः, स्थूलो, गुनभृन्, निर्गुणो, महान् ।
अदृतः, स्वदृतः, स्वास्यः, प्राग् वंशो, वंश वर्धनः ॥

॥ ९१ ॥

भारबृत्, कथितो, योगी, योगीशः, सर्व कामदः ।
आश्रमः, श्रमण, क्षामः, सुपर्णो, वायुवाहनः ॥

॥ ९२ ॥

धनुर् धरो, धनुर् वेदो, दण्डो, दमयिता, अदमः ।
अपराजितः, सर्वसहो, नियन्ता, नियमो, यमः ॥

॥ ९३ ॥

सत्त्ववान्, सात्त्विकः, सत्यः, सत्य धर्म परायणः ।
अभिप्रायः, प्रियार्ह, अर्हः, प्रिय कृत्, प्रीति वर्धनः ॥

॥ ९४ ॥

विहाय सगतिर्, ज्योतिः, सुरुचिर्, हुतभुग् विभुः ।
रविर्, विरोचनः, सूर्यः, सविता, रवि लोचनः ॥

॥ ९५ ॥

अनन्त हुतभुग् भोक्ता, सुखदो, नैकद, अग्रजः ।
अनिर्विण्णः, सदामर्षी, लोकाधिष्ठानं, अञ्जुतः ॥

॥ ९६ ॥

सनात्, सनातन तमः, कपिलः, कपिरव्ययः ।
स्वस्तिदः, स्वस्ति कृत्, स्वस्ति, स्वस्ति भुक्, स्वस्ति दक्षिणः ॥

॥ ९७ ॥

अरौद्रः, कुण्डली, चक्री, विक्रमी, ऊर्जित शासनः ।
शब्दातिगः, शब्द सहः, शिशिरः, शर्वरीकरः ॥

॥ ९८ ॥

अक्रूरः, पेशालो, दक्षो, दक्षिणः, क्षमिणां वरः ।
विद्वत्तमो, वीत भयः, पुण्य श्रवण कीर्तनः ॥

॥ ९९ ॥

उत्तारणो, दुष् कृतिहा, पुण्यो, दुः स्वप्न नाशनः ।
वीरहा, रक्षणः, सन्तो, जीवनः, पर्यवस्थितः ॥

॥ १०० ॥

अनन्त रूपः, अनन्त श्रीर्, जित मन्युर्, भयापहः ।
चतुरश्रो, गभीरात्मा, विदिशो, व्यादिशो, दिशः ॥

॥ १०१ ॥

अनादिर्, भूर्भुवो, लक्ष्मीः, सुवीरो, रुचिराङ्गदः ।
जननो, जन जन्मादिर्, भीमो, भीम पराक्रमः ॥

॥ १०२ ॥

आधार निलयो, धाता, पुष्टपहासः, प्रजागरः ।
ऊर्ध्वगः, सत्पथाचारः, प्राणदः, प्रणवः, पणः ॥

॥ १०३ ॥

प्रमाणं, प्राण निलयः, प्राणधृत्, प्राण जीवनः ।
तत्वं, तत्व विद्, एकात्मा, जन्म मृत्यु जरातिगः ॥

॥ १०४ ॥

भूर् भुवः स्वस्तरुस्, तारः, सविता, प्रपितामहः ।
यज्ञो, यज्ञ पतिर्, यज्ञा, यज्ञाङ्गो, यज्ञ वाहनः ॥

॥ १०५ ॥

यज्ञ भृद्, यज्ञ कृद्, यज्ञी, यज्ञ भुग्, यज्ञ साधनः ।
यज्ञान्त कृद्, यज्ञ गुह्यं, अन्नम्, अन्नाद एव च ॥

॥ १०६ ॥

आत्मयोनिः, स्वयं जातो, वैखानः, साम गायनः ।
देवकी नन्दनः, स्रष्टा, क्षितीशः, पाप नाशनः ॥

॥ १०७ ॥

शङ्क भृन्, नन्दकी, चक्री, शार्ङ्ग धन्वा, गदा धरः ।
रथाङ्गपाणिर्, अक्षोभ्यः, सर्व प्रहरणायुधः ॥

॥ ॐ नमो भगवते वासुदेवाय नम: ॥

वनमाली गदी शार्ङ्ग शङ्की चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर् वासुदेवोऽभिरक्षतु ॥

फल श्रृति

इतीदं कीर्तनीयस्य केशवस्य महात्मनः ।
नामनां सहस्रं दिव्यानां अश्लेषेण प्रकीर्तितम् ॥

य इदं श्रुणुयान् नित्यं यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित् सोऽमुत्रेह च मानवः ॥

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धन समृद्धः स्यात् छृद्वः सुखमवाप्नुयात् ॥

धर्मार्थी प्राण्याद् धर्मम् अर्थार्थी चार्थमाण्यात् ।
कामानवाण्यात् कामी प्रजार्थी चाण्यात् प्रजा: ॥

भक्तिमान् य: सदोत्थाय शुचिस् तद्वत मानस: ।
सहस्रं वासुदेवस्य नाम्नां एतत् प्रकीर्तयेत् ॥

यश: प्राणोति विपुलं जाति प्राधान्यम् एव च ।
अचलां श्रियमाणोति श्रेय: प्राणोति अनुत्तमम् ॥

न भयं क्वचिदाणोति वीर्यं तेजश्च विन्दति ।
भवत्यरोगो धुतिमान् बलरूप गुणान्वित: ॥

रोगातौं मुच्यते रोगाद् बद्धो मुच्येत बन्धनात् ।
भयान् मुच्येत भीतस्तु मुच्येतापन्न आपद: ॥

दुर्गाण् यतितरल्याशु पुरुष: पुरुषोत्तमम् ।
स्तुवन् नाम सहस्रेण नित्यं भक्ति समन्वित: ॥

वासुदेवाश्रयो मत्यौं वासुदेव परायण: ।
सर्व पाप विशुद्धात्मा याति ब्रह्म सनातनम् ॥

न वासुदेव भक्तानां अशुभं विद्यते क्वचित् ।
जन्म मृत्यु जरा व्याधि भयं नैवो पजायते ॥

इमं स्तवमधीयान: स्नद्धा भक्ति समन्वित: ।
युज्येतात्म सुख क्षान्ति श्री धृति स्मृति कीर्तिभि: ॥

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मति: ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥

धौ: सचन्द्रार्क नक्षत्रा खं दिशो भूर् महोदधि: ।
वासुदेवस्य वीर्येण विधुतानि महात्मना: ॥

ससुरासुर गन्धर्वं सयक्षोरग राक्षसम् ।
जगत् वशो वर्ततेदं कृष्णस्य सचराचरम् ॥

इन्द्रियाणि मनो बुद्धि: सत्त्वं तेजो बलं धृति: ।
वासुदेवात्मकान्याहु: क्षेत्रं क्षेत्रज्ञ एव च ॥

सर्वांगमानाम् आचारः प्रथमं परि कल्पितः ।
आचार प्रथमो धर्मो धर्मस्य प्रभुर् अच्युतः ॥

ऋषयः पितरो देवा महाभूतानि धातवः ।
जङ्गमा जङ्गमं चेदं जगन् नारायणोद् भवम् ॥

योगो ज्ञानं तथा साङ्ख्यं विद्या: शिल्पादि कर्म च ।
वेदा: शास्त्राणि विज्ञानं एतत् सर्वं जनार्दनात् ॥

एको विष्णुर् महज्जुतं पृथग् भूतान्य नेकशः ।
त्रीन् लोकान् व्याघ्य भूतात्मा भुड्ढे विश्वभुगव्ययः ॥

इमं स्तवं भगवतो विष्णोर् व्यासेन कीर्तितम् ।
पठेद इच्छेत् पुरुषः श्रेय: प्राप्तुं सुखानि च ॥

विश्वेश्वरमजं देवं जगतः प्रभुम् अव्ययम् ।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥

अर्जुन उवाच

पद्य पत्र विशालाक्ष पद्य नाभ सुरोतम ।
भक्तानां अनुरक्तानां त्राता भव जनार्दन ॥

श्री भगवान् उवाच

यो मां नाम सहस्रेण स्तोतुम् इच्छति पाण्डव ।
सोहअमेकेन श्लोकेन स्तुत एव न संशयः ॥

व्यास उवाच

वासनाद् वासुदेवस्य वासितं भुवन त्रयम् ।
सर्वभूत निवासोऽसि वासुदेव नमोऽस्तु ते ॥

पार्वन्युवाच

केनोपायेन लघुना विष्णोर् नाम सहस्रकम् ।
पद्यते पण्डितैर् नित्यं श्रोतुम् इच्छाम्यहं प्रभो ॥

ईश्वर उवाच

श्री राम राम रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं राम नाम वरानने ॥

ब्रह्मोवाच

नमोऽस्त्वनन्ताय सहस्र मूर्तये सहस्रपादाक्षि शिरोरु बाहवे ।
सहस्र नाम्ने पुरुषाय शाश्वते सहस्र कोटी युगधारिणे नम: ॥

सञ्जय उवाच

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर् विजयो भूतिर् ध्रुवा नीतिर् मतिर् मम ॥

श्री भगवान् उवाच

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योग क्षेमं वहाम्यहम् ॥

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्म सम्ब्थापनार्थाय संभवामि युगे युगे ॥

आर्ता विष्णाः शिथिलाश्च भीताः
घोरेषु च व्याधिषु वर्तमानाः ।
सङ्कीत्य नारायण शब्द मात्रं
विमुक्त दुःखाः सुखिनो भवन्ति ॥

कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्याऽऽत्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै
नारायणायेति समर्पयामि ॥

॥ श्री विष्णु सहस्रनाम स्तोत्रम् संपूर्णम् ॥