श्री गणेश अथर्वशीर्ष: संपूर्ण १४ श्लोक व हिंदी भावार्थ

श्री गणेश अथर्वशीर्ष का संपूर्ण १४ श्लोक वाला पाठ देवनागरी में पढ़ें। सरल हिंदी भावार्थ-सार, पाठ-संदर्भ और सामान्य प्रश्न।

श्री गणेश अथर्वशीर्ष के बारे में

गणपति अथर्वशीर्ष भगवान गणेश के ब्रह्मस्वरूप, ज्ञान और उपासना का वैदिक शैली का पाठ है। इस संस्करण में शान्तिपाठ, १४ क्रमांकित मंत्र-खंड और समापन शान्तिमंत्र शामिल हैं।

संपूर्ण पाठ पढ़ें। अलग-अलग संस्करणों में उच्चारण तथा पाठांतर हो सकते हैं।

श्री गणेश अथर्वशीर्ष — १४ श्लोक

आरंभिक शान्तिपाठ

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।
भद्रं पश्येमाक्षभिर्यजत्राः ॥
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः ।
व्यशेम देवहितं यदायुः ॥
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः ।
स्वस्ति नः पूषा विश्ववेदाः ॥
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः ।
स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं हर्ताऽसि । त्वमेव सर्वं खल्विदं ब्रह्मासि ॥ त्वं साक्षादात्माऽसि नित्यम् ॥ १ ॥

ऋतं वच्मि (वदिष्यामि) ॥ सत्यं वच्मि (वदिष्यामि) ॥ २ ॥

अव त्वं माम् । अव वक्तारम् अव धातारम् । अवानूचानमव शिष्यम् अवोत्तरात्तात् । अव दक्षिणात्तात् सर्वतो मां पाहि पाहि समन्तात् ॥ ३ ॥

त्वं वाङ्ग्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं ज्ञानमयो विज्ञानमयोऽसि ॥ ४ ॥

सर्वं जगदिदं त्वत्तो जायते । सर्वं जगदिदं त्वत्तस्तिष्ठति त्वं भूमिरापोऽनलोऽनिलो नभः ॥ त्वं चत्वारि वाक्पदानि ॥ ५ ॥

त्वं गुणत्रयातीतः त्वमवस्थात्रयातीतः । त्वं देहत्रयातीतः त्वं शक्तित्रयात्मकः । त्वां योगिनो ध्यायन्ति नित्यम् ॥ त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वम् इन्द्रस्त्वम् अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवःस्वरोम् ॥ ६ ॥

गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् । अनुस्वारः परतरः एतत्तव मनुस्वरूपम् । गकारः पूर्वरूपम् बिन्दुरुत्तररूपम् । नादः सन्धानम् गणकऋषिः । निचृद्गायत्रीच्छन्दः ॐ गं गणपतये नमः ॥ ७ ॥

एकदन्ताय विद्महे । वक्रतुण्डाय धीमहि ॥ तन्नो दन्तिः प्रचोदयात् ॥ ८ ॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ॥ एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥ ९ ॥

नमो व्रातपतये । नमो गणपतये विघ्ननाशिने शिवसुताय । श्रीवरदमूर्तये नमो नमः ॥ १० ॥

एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते स पञ्चमहापापात्प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति सर्वत्राधीयानोऽपविघ्नो भवति । धर्मार्थकाममोक्षं च विन्दति सहस्रावर्तनात् यं यं काममधीते तं तमनेन साधयेत् ॥ ११ ॥

अनेन गणपतिमभिषिञ्चति स वाग्मी भवति ब्रह्माद्याचरणं विद्यात् न बिभेति कदाचनेति ॥ १२ ॥

यो दूर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति । यो लाजैर्यजति स यशोवान् भवति स वाञ्छितफलमवाप्नोति । यः साज्यसमिद्भिर्यजति ॥ स सर्वं लभते स सर्वं लभते ॥ १३ ॥

अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति । सूर्यगृहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा सिद्धमन्त्रो भवति महापापात् प्रमुच्यते । स सर्वविद्भवति स सर्वविद्भवति ॥ य एवं वेद इत्युपनिषत् ॥ १४ ॥

समापन शान्तिमंत्र

ॐ सहनाववतु । सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

भावार्थ-सार: पहले मंत्र में गणपति को परम तत्त्व, सृष्टि के कर्ता, धर्ता और संहारकर्ता रूप में नमन है। आगे सत्य-वचन, चारों दिशाओं से रक्षा, सत्-चित्-आनन्द, पंचमहाभूत, गणेश बीजमंत्र, गायत्री, रूप-ध्यान और उपासना की परंपरागत फलश्रुति का वर्णन है। अंतिम खंडों में अध्ययन, श्रद्धा और उपासना की बात कही गई है।

पाठ-संदर्भ: मूल पाठ-फाइल और संपादकीय स्रोत। पाठ प्राचीन है; डिजिटल प्रतिलिपि पर योगदानकर्ताओं के अधिकार और लागू लाइसेंस का सम्मान करें। हिंदी व्याख्या NityaJaap के लिए स्वतंत्र रूप से लिखी गई है।

श्री गणेश अथर्वशीर्ष के सामान्य प्रश्न

इस पाठ में कितने क्रमांकित श्लोक हैं?

इस संस्करण में १४ क्रमांकित श्लोक हैं तथा साथ में शान्तिपाठ है।

यह पाठ कब पढ़ा जाता है?

भक्त इसे अपने दैनिक पूजन तथा संबंधित देवता की विशेष आराधना के समय श्रद्धा से पढ़ते हैं।